\गोवर्णः खालतेयः पापीयान्भविष्यति ।
प्रथमत एव मुखतोऽन्नाद्यमधित ।
यदा वै मुखमन्नं प्राप्नोति ततो वाव तत्पूयति यदि प्रगिरति पूयति यदि ष्ठीवति पूयत्यपूपुयदन्नाद्यं पापीयान्भविष्यतीति ।
तद्ध तथैवास ।
स ह पापीयानास ।
तस्मै होचुर्यो वै तेऽयं स्व एवान्तेवासी गोवर्णः खालतेयस्स वै त्वानुव्याहार्षीदिति ।
तं होवाच स वै मा त्वमनेन यज्ञेन याजयेति ।
तथेति होवाच ।
तं वै त्वा यथा रथं वा रिष्टं संस्कुर्यादनो वा एवं त्वा संस्करिष्यामीति ।
तस्य ह त्रिवृदेव प्रथममहश्चकार अथ पञ्चदशमथैकविंशमथ त्रिणवमथ त्रयस्त्रिंशमथ सप्तदशमथ सप्तदशम् ।
द्वे सप्तदशे अनूची ।
एतेनो ह गोवर्णः खालतेय आचार्यं याजयां चकार ।
आत्मा वै पृष्ठ्यष्षडहोऽन्नं सप्तदशः ।
स आत्मन एवाध्यूर्ध्वोऽन्नाद्यमभ्युत्क्रमिष्यते ।
तत्त्वोपरिष्टादन्नाद्यमवरुद्धमुपस्थास्यते सप्तदशात्सप्तदशमन्नादन्नम् ।
अभि ते प्रजान्नादी भवितेति होवाच ३०६