अथैष बबरसप्तरात्रः ।
तस्य सप्तदशमेव प्रथममहरथ त्रिवृदथ पञ्चदशमथैकविंशमथ त्रिणवमथ त्रयस्त्रिंशं ज्योतिरतिरात्रः ।
एतेनो ह स ईजे श्रीकामोऽन्नाद्यकामः ।
आत्मा वै पृष्ठ्यष्षडह इति ।
मुखं त्रिवृदन्नं सप्तदशः ।
स प्रथमत एव मुखतोऽन्नाद्यं धास्ये सोऽन्नाद श्रेष्ठ स्वानां भविष्यामीति ।
अथो संवत्सरो वै पृष्ठ्यष्षडहस्तन्मा संवत्सरस्य पुरस्तादन्नाद्यमवरुद्धमुपस्थास्यत इति ।
ज्योतिरतिरात्रः ।
एतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः ।
स उ प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचं गमिष्यामीति तमु ह स्व एवान्तेवास्यनुव्याजहार ३०५