३०४

तदाहुस्तत्स्थानं वा एतदहोरात्र्या अग्निष्टोमो वा एतदहरिति ।

तदु वा आहुस्संवत्सरो वा एष यदग्निष्टोमः

संवत्सरः प्रजापतिः ।

प्राजापत्यं महाव्रतमेवाग्निष्टोमसाम्नः पञ्चविंशानि स्तोत्राणि स्युः ।

अथैकविंशैरुक्थ्यै रात्रिमुपावरोहेयुरिति ।

तथा हैतौ यज्ञक्रतू व्याक्रियेते ।

अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमेऽहनि महाव्रतं विश्वजित्सर्वपृष्ठोऽतिरात्र एतेनो ह क्रतुः कारीरादिरीजे श्रीकामोऽन्नाद्यकामः ।

आत्मा वै पृष्ठ्यष्षडहोऽन्नं महाव्रतम् ।

स मध्यत एवात्मनोऽन्नाद्यं धास्ये सोऽन्नाद श्रेष्ठ स्वानां भविष्यामीति ।

अथो संवत्सरो वै पृष्ठ्यष्षडहः ।

तन्मा संवत्सरेणान्नाद्यं परिगृहीतमुपस्थास्यत इति ।

विश्वजित्सर्वपृष्ठोऽतिरात्रो भवति ।

श्रीर्वै वर्ष्म पृष्ठानि ।

तदु श्रियं वर्ष्म पृष्ठान्यभ्युत्क्रमिष्यामीति ।

तमु ह ब्राह्मण उवाच यावज्जीविष्यत्यन्नाद एव श्रेष्ठ स्वानां भविष्यति विशीर्षास्त्वेव मर्तेति ।

शिरो वा एतद्यज्ञस्य यन्महाव्रतम् ।

तद्यथा शिरश्छित्वा तदुपपक्षयोरुपगूहेत्तद्वै न श्लिष्यति तादृगकृदिति होवाच ।

जानन्त एवास्य शिरश्छेत्तार इति ।

तद्ध तथैवास ।

यावद्ध क्रतुः कारीरादिर्जिजीवान्नाद एव श्रेष्ठ स्वानामास ।

विशीर्षास्त्वेव ममार ।

जानन्तो ह त्वेवास्य शिरश्चिच्छिदुर्भार्यकाः ।

स हैष कल्याण एव यज्ञक्रतुर्यस्त्वैनेनानुपद्र ष्ट्रे यजेत ३०४