तेन हैतेन जनको वैदेह इयक्षां चक्रे ।
तं ह स्म यद्ब्राह्मणाः कुरुपाञ्चाला आहुरनेन त्वा यज्ञेन याजयामानेन त्वा यज्ञेन याजयामेति ।
नेति ह स्माह ।
न स युष्मद्ब्राह्मणो ब्रह्मीयानासीद्यो मह्यमेतं यज्ञक्रतुं व्यदधात् ।
एतेनैव मा याजयतेति ।
तथेति ।
तेन हैनं याजयां चक्रुः ।
स वा एष पृष्ठ्य एव षडहः पञ्चविंशं महाव्रतम् ।
तत एव रात्रिमुपयन्ति ।
श्रीर्वै वर्ष्म पृष्ठानि ।
श्रियमेव तद्वर्ष्म पृष्ठान्यभ्यारोहति ।
अन्नं वै महाव्रतमन्नाद्यस्यैवावरुद्ध्यै ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यत्पृष्ठ्यष्षडहो भवत्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ३०३