३०२

तेऽहर्भाज आसन् ।

ततो वै तेषामह्नैवैक आर्ध्नोदह्नैकोऽह्नैकः ।

सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यमेतेन सप्तर्षय आर्ध्नुवन् ।

सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यमेतेन सप्तर्षय आर्ध्नुवंस्तमृध्नवानीति ।

तस्मात्सप्तरात्रेण यजते ।

सप्तैतान्यहानि भवन्ति सप्त स्तोमाः ।

अहरेव स्तोमो वहत्यह स्तोमोऽह स्तोमः ।

सा ह खलु वा अह्नां समृद्धिर्यदेनानि नाना स्तोमा वहन्ति ।

सा यैवाह्नां समृद्धिस्सैवैषा क्रियते ।

त उ सर्वे सप्त सम्पद्यैकविंशमेवाभिसम्पद्यन्ते त्रिवृच्च त्रयस्त्रिंशश्च तौ द्वावेकविंशौ पञ्चदशश्च त्रिणवश्च तौ द्वावेकविंशौ सप्तदशश्च पञ्चविंशश्च तौ द्वावेकविंशावेकविंश एवैकविंशः ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

एतस्य वा एते सलोकतां गच्छन्ति ये सप्तरात्रयाजिनः ।

एतमभिसम्पन्न एषां लोक ऋध्नोति ।

एतं गच्छत्येतस्य सलोकतां य एवं वेद ३०२