अथैते सप्तरात्राः ।
सप्त वै छन्दांसि ।
छन्दांसि वै सर्वा वाक् ।
वाचस्स षश्वर्यमाधिपत्यं गच्छति य श्रियमश्नुते ।
वाच षश्वर्यमाधिपत्यं गच्छानीति ।
तस्मात्सप्तरात्रेण यजते ।
सप्त वै प्राणाः ।
प्राणैर्वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते ।
तद्यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते तैर्मा प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठान्ता इति ।
प्राणैर्वै देवा स्वर्गं लोकमायन् ।
तद्यैः प्राणैर्देवा स्वर्गं लोकमायंस्तैः प्राणै स्वर्गं लोकमयानीति ।
सप्त वै मुख्याः प्राणाः ।
एते वा अपहतपाप्मानः प्राणा यन्मुख्याः ।
ते येऽपहतपाप्मानः प्राणास्तेषां मात्रया यज्ञं तनवा इति ।
सप्तर्षयो वा ऋद्धिकामास्तपोऽतप्यन्त ।
त एतं सप्तरात्रं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ३०१