३००

अथ यस्यैतस्य विश्वजिदभिजितावतिरात्रावभितो भवतो गौरायुर्गौरायुरिति चत्वार उक्थ्या मध्ये पशुकामा हैतदुपेयुः ।

अयं वै लोकोऽभिजिदसौ विश्वजित् ।

अथैते चत्वारो मध्य उक्थ्या भवन्ति ।

पशवो वा उक्थानि ।

तेषां सहस्रं स्तोत्रियाः ।

अनेन चैव तल्लोकेनामुना चोभयत एतान्पशून्परिगृह्णतेऽव पशून्रुन्धते ।

बहुपशवो ह भवन्ति ।

एतेन ह वै तदेनेनेन्द्रा ग्नी मरुतः सहस्रं जिग्यतुः इन्द्रो वै मरुतस्सहस्रमजिनोत् ।

अग्निरभिजिदिन्द्रो विश्वजित् ।

अथैते चत्वारो मध्य उक्थ्या भवन्ति ।

पशवो वा उक्थानि ।

तेषां सहस्रं स्तोत्रिया ।

एतद्ध वै तदिन्द्रा ग्नी उभयतस्सहस्रं परिगृह्याजह्रतुः ।

आभ्यां च ह वा एनं तल्लोकाभ्यामिन्द्रा ग्निभ्यां चोभयतः पशवः परिगृहीता उपतिष्ठन्ते य एवं वेद ।

तेषामु तेषां परीणदिति कुरुक्षेत्रस्य जघनार्धे सरस्कं तद्दीक्षायै ।

ते प्राञ्चो यन्ति समया कुरुक्षेत्रम् ।

एतद्वै देवानां देवयजनं यत्कुरुक्षेत्रम् ।

देवानामेव तद्देवयजनेन यन्ति ।

तेषां यमुनावभृथः ।

एष वै स्वर्गो लोको यद्यमुना ।

स्वर्गमेव तल्लोकं गच्छन्ति ।

अथ यस्यैतस्योर्ध्वस्त्रियहः प्रत्यङ्त्र् यहो यः कामयेत गच्छेयं स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठेयमिति स एतेन यजेत ।

त्र्यहेणैवेत ऊर्ध्व स्वर्गं लोकं गच्छति प्रत्येवामुतस्त्र्यहेणावरोहति ।

गच्छति स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठति ।

अथो ह वेद योऽसावासं सोऽयमस्मीति पुनर्हैवास्मिल्ँ लोक आजायते ३००