तेन हैतेन मरुतो यत इन्द्रा ग्नी ईक्षां चक्राते इमे चेद्वा इदं समापयन्ति मरुत एवेदं सर्वं भवन्तीति ।
तान्ह सत्रपरिवेषणं सहस्रं जिग्यतुः ।
तद्धैषां विमाथीचक्रिरे ।
पाप्मानं ह वा एषां तद्विमेथिरे ।
तस्मादु ह विमाथ्यस्य न लिप्सेत नेत्पाप्मनोऽपभजा इति ।
तयोर्ह वै ते ज्यान्या रराधुः ।
ते होत्तस्थुररात्स्मेति ।
तेषामेता उदृचो यत्समापयन्ति सैका ।
यदेषाम्म्रियते सैका ।
यद्दश गावश्शतं भवन्ति सैका ।
यच्छतं गावस्सहस्रं भवन्ति सैका ।
तेन हैतेन पुरायु स्थूरगृहपतयः ।
तान्ह त्रिकर्तानां वा सल्वानां वाव्याधिनीः पर्युत्थाय जिग्युः ।
तद्धैषां गृहपतिं जघ्नुः ।
तं हेमं गृहपतिं हतमभितः कृपयमाणा निषेदुः ।
तमु ह ध्रुवगोपः साङ्काशिनेनैव द्र वन्तं निर्जज्ञौ ।
स आहवनीयादेवोर्ध्व स्वर्गं लोकमाचक्रमे ।
स होवाच मा कृपयध्वम् ।
यं वा इमं कृपयध्वेऽयं वै स आहवनीयादेवोर्ध्व स्वर्गं लोकमाक्रंस्तेति ।
तेषां यांस्तत्र जघ्नुस्ते स्वर्गं लोकमीयुः ।
अथ ये परिशिशिषिरे त इम एतर्हि पणाय्यतरा इव स्थूराणाम् ।
पापग्रामतरा इव हि ततः पुरासुः ।
तस्मादु स्थौर्यं शम्यापरासिनेत्याख्यापयन्ति २९९