चक्रवती सदोहविर्धाने भवत उलूखलबुध्नो यूप उत्क्रान्त्या अनपभ्रंशाय ।
यद्धि ते तत्र कुर्वाणा इवासीरन्नपभ्रंशो हैषां सः ।
शम्यापरासं यन्ति ।
एते ह वै स्वर्गस्य लोकस्य विक्रमा यच्छम्यापरासाः ।
स्वर्गस्यैव तल्लोकस्य विक्रमान्क्रममाणा यन्ति ।
घ्नन्त आक्रोशन्तो यन्ति ।
एतद्वै बलस्य रूपं यद्धतमाक्रुष्टम् ।
सरस्वत्या यन्ति ।
वाग्वै सरस्वती ।
वागु देवयानः पन्थाः ।
देवयानेनैव तत्पथा यन्ति ।
प्रतीपं यन्ति ।
प्रतीपमिव वै स्वर्गो लोकः ।
स्वर्गमेव तल्लोकं प्रतिपद्यन्ते ।
प्राञ्च उदञ्चो यन्ति ।
प्राङिव ह वा उदङ्स्वर्गो लोकः ।
स्वर्गमेव तल्लोकं रोहन्तो यन्ति ।
आ प्रक्षात्प्रास्रवणाद्यन्ति ।
एष उ ह वै वाचोऽन्तो यत्प्रक्षः प्रास्रवणः ।
यत्रो ह वै वाचोऽन्तस्तत्स्वर्गो लोकः ।
स्वर्गमेवैतल्लोकं गच्छन्ति २९८