२९७

अथैते षड्रात्राः ।

मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम जयेम स्वर्गं लोकमिति ।

त एतं षड्रात्रं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानामासन्नजयन्स्वर्गं लोकम् ।

ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति जयति स्वर्गं लोकं य एवं वेद ।

पृष्ठ्येन षडहेन यन्ति ।

श्रीर्वै वर्ष्म पृष्ठानि ।

श्रियमेव तद्वर्ष्म पृष्ठान्यभ्यारोहति ।

ओजो वै वीर्यं पृष्ठानि ।

ओजसैव तद्वीर्येण यन्ति ।

स्वर्गो वै लोकः पृष्ठानि ।

स्वर्गमेव तल्लोकं रोहन्तो यन्ति ।

तेषां सरस्वत्या उपमज्जने दीक्षा ।

दक्षिणे तीरे दीक्षन्ते २९७