२९६

अथ यस्यैतस्य ज्योतिषी अग्निष्टोमावभितो भवतो गोआयुषी उक्थ्यावन्तरौ ज्योतिरतिरात्रो मध्ये प्रजननकामो हैतेन यजेत ।

एतद्वै कृत्स्नम्प्रजननं यज्ज्योतिरतिरात्रः ।

मध्यत उ वा आत्मनः प्रजननम् ।

तद्यन्मध्ये ज्योतिरतिरात्रो भवति मध्यत एवैतदात्मनः प्रजननं धत्ते बहुर्भवति प्रजायते ।

गोआयुषी उक्थ्यावन्तरौ भवतः ।

पशवो वा उक्थानि ।

तयोः पञ्चशतानि स्तोत्रियाः ।

पशुभिरेव तदुभयतः प्रजां परिगृह्णीते ।

ज्योतिषी अग्निष्टोमावभितो भवतः ।

ब्रह्म वै ज्योतिरग्निष्टोमः ।

ब्रह्मणैव तदुभयतः प्रजां पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

अथ यस्यैतस्य ज्योतिषी अग्निष्टोमावभितो भवतो गोआयुषी उक्थ्यावन्तरौ ज्योतिरग्निष्टोमो मध्ये यः कामयेता मे ब्रह्मवर्चसी प्रजायां जायेतेति स एतेन यजेत ।

तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमः ।

मध्यत उ वा आत्मनः प्रजननम् ।

तद्यन्मध्ये ज्योतिरग्निष्टोमो भवति मध्यत एवैतदात्मनो ज्योतिर्धत्त आ हास्य ब्रह्मवर्चसी प्रजायां जायते ।

गोआयुषी उक्थ्यावन्तरौ भवतः ।

पशवो वा उक्थानि ।

तयोः पञ्चशतानि स्तोत्रियाः ।

पशुभिरेव तदुभयतो ब्रह्मवर्चसिनीं प्रजां परिगृह्णीते ।

ज्योतिषी अतिरात्रावभितो भवतः ।

इमौ वै लोकावतिरात्रौ ।

आभ्यामेवैतल्लोकाभ्यामुभयतः प्रजां पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद २९६