अथ यस्यैतस्य ज्योतिर्गौरायुरिति त्र्यहश्चतुर्विंशमहस्सर्वस्तोमोऽतिरात्रो यः कामयेत परोक्षोपेतं मे महाव्रतं स्यादिति स एतेन यजेत ।
तद्यच्चतुर्विंशमहर्भवति तेनैवास्य परोक्षोपेतं महाव्रतं भवति ।
यद्वेव तत्र हिङ्कारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद्भवति तेनैवास्य पञ्चविंश्युपाप्ता भवति ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ।
अथ यस्यैतस्य त्रिवृत्पञ्चदशस्सप्तदश इति त्र्यहश्चतुर्विंशमहर्ज्योतिरतिरात्रो य उ एव कामयेत परोक्षोपेतं मे महाव्रतं स्यादिति स एतेन यजेत ।
तद्यच्चतुर्विंशमहर्भवति तेनैवास्य परोक्षोपेतं महाव्रतं भवति ।
यद्वेव तत्र हिङ्कारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद्भवति तेनैवास्य पञ्चविंश्युपाप्ता भवति ।
ज्योतिरतिरात्र एतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्टा उदृचमश्नवामहा इति २९५