अथ यस्यैतस्य ज्योतिर्गौरायुरिति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमोऽतिरात्रोऽन्नाद्यकामो हैतेन यजेत ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यज्ज्योतिर्गौरायुरिति त्र्यहो भवत्ययं वै लोको ज्योतिरयं गौरसावायुः ।
इमे वै लोका ऋतवस्संवत्सरः ।
ऋतवस्संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति ।
अथ यस्यैतस्य त्रिवृत्पञ्चदशस्सप्तदश इति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमोऽतिरात्रोऽन्नाद्यकाम उ एवैतेन यजेत ।
तदाहुर्न पुरा संवत्सरान्महाव्रतमुपेत्यमिति ।
तद्यत्त्रिवृत्पञ्चदशस्सप्तदश इति त्र्यहो भवत्ययं वै लोकस्त्रिवृदयं पञ्चदशोऽसौ सप्तदशः ।
इमे वै लोका ऋतवस्संवत्सरः ।
ऋतवस्संवत्सरः कृत्स्नमन्नाद्यं पचति संवत्सराभिजितमेव तदन्नाद्यमुपयन्ति ।
पञ्चविंशं महाव्रतमन्नं वै पञ्चविंशमन्नाद्यस्यैवावरुद्ध्यै ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति २९४