२९३

जितिर्वा एता व्याहृतयः ।

जितिः पञ्चरात्रः ।

जयति जयति य एवं वेद ।

सा वा एषा सर्वस्यान्या जितिस्सर्वस्यान्या पराजितिः ।

सर्वं वा एतेन देवा असुरानजयन् ।

सर्वमसुराः पराजयन्त ।

सर्वमेव द्विषन्तं भ्रातृव्यं जयति सर्वमस्य द्विषन्भ्रातृव्यः पराजयते य एवं वेद ।

अथैते सन्तता भवन्ति ।

यथा ह वै दारूणि वर्ध्रेण सन्ततानि रथस्य वानसो वैवं स्तोमैः पञ्चरात्रस्सन्ततः ।

प्राणा ह खलु वै स्तोमाः ।

प्राणैः पुरुषस्सन्ततः ।

सं ह तायते य एवं वेद ।

तस्य द्वौ-द्वौ स्तोमौ युक्तावहर्वहतः ।

द्वौ-द्वौ वै युक्तानां वहिष्ठौ ।

युक्तेन तत्र गच्छति यत्र जिगमिषति २९३