एकोऽस्माकमिति देवा अब्रुवतैकास्माकमित्यसुराः ।
मन एव देवा अब्रुवत वाचमसुराः ।
ते देवा मनसैव वाचमसुराणामवृञ्जत ।
तस्माद्यन्मनसाधिगच्छति तद्वाचा वदति ।
द्वावस्माकमिति देवा अब्रुवत द्वे अस्माकमित्यसुराः ।
प्राणापानावेव देवा अब्रुवत अहोरात्रे असुराः ।
ते देवाः प्राणापानाभ्यामेवाहोरात्रे असुराणामवृञ्जत ।
तस्माज्ज्योग्जीवन्बहून्यहोरात्राण्येवानिति ।
त्रयोऽस्माकमिति देवा अब्रुवत तिस्रोऽस्माकमित्यसुराः ।
इमानेव त्रील्ँ लोकान्देवा अब्रुवत तिस्रो विद्या असुराः ।
ते देवा एभिरेव लोकैस्तिस्रो विद्या असुराणामवृञ्जत ।
तस्मादेता विद्या एष्वेव लोकेषु प्रोच्यन्ते ।
चत्वारोऽस्माकमिति देवा अब्रुवत चतस्रोऽस्माकमित्यसुराः ।
चतुष्पद एव पशून्देवा अब्रुवत चतस्रो दिशोऽसुराः ।
ते देवा चतुष्पाद्भिरेव पशुभिश्चतस्रो दिशोऽसुराणामवृञ्जत ।
तस्माद्यां कां चन दिशं पशुमानयति सर्वामेव जितां क्ळ्प्तां प्रतिष्ठितामन्वेति ।
पञ्चास्माकमिति देवा ऋतूणेवाब्रुवत ।
अथासुरा न प्राविन्दन् ।
न हि पञ्चि किं चनास्ति ।
तेऽसुरा आरम्भमविन्दन्तः पञ्च पञ्चेत्येव वदन्तः पराजयन्त ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद २९२