अथैते पञ्चरात्राः ।
पञ्च वै जयाः ।
पञ्चभिर्वै व्याहृतिभिरिदं देवा अजयन् ।
तद्यावतेदं देवा अजयंस्तावता जयानीति ।
पाङ्क्तो यज्ञः ।
यावती यज्ञस्य मात्रा तामाप्नवानीति ।
पाङ्क्ताः पशवः ।
यावती पशूनां मात्रा तावता मा पशवोऽवरुद्धा उपतिष्ठान्ता इति ।
पाङ्क्तमन्नाद्यम् ।
यावत्यन्नाद्यस मात्रा तावता मान्नाद्यमवरुद्धमुपतिष्ठाता इति ।
पञ्चैतान्यहानि भवन्ति ।
पञ्चर्तवस्संवत्सरः ।
संवत्सरः प्रजापतिर्यज्ञः ।
संवत्सरमेवैतेन प्रजापतिं यज्ञमाप्नोति ।
देवासुरा अस्पर्धन्त ।
ते नैव दण्डैर्नेषुभिर्व्यजयन्त ।
तेऽब्रुवन्न वै दण्डैर्नेषुभिर्विजयामहै ।
वाच्येव वाव नो ब्रह्मन्विजयोऽस्त्विति ।
त षक्षन्त यतरे नो यतरान्पूर्वेऽभिव्याहरिष्यन्ति ते तेषां क्षेष्यन्त इति ।
ते देवा असुरानब्रुवन्यूयं पूर्वे ब्रूध्वमिति ।
यूयमिद्वा इत्यसुरा देवान् ।
ते देवा एतद्वाचो मिथुनमपश्यन् २९१