अथैष गौतमस्य चतुष्टोमः ।
गौतमाय वै न श्रददधत ।
अश्रद्धानीयो राजन्य ऋषिरिति ।
सोऽकामयत श्रन्मे दधीरञ्श्रद्धानीय स्यामिति ।
स एतं चतूरात्रं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै तस्मै श्रददधत श्रद्धानीयोऽभवत् ।
श्रद्धानीयो भवति य एवं वेद ।
स वा एष कृतस्तोमः ।
श्रद्धा वै कृतम् ।
यद्ध वा इदं कृतेन जित्वा हरन्ति श्रद्धया हैव तद्धरन्ति ।
तस्मात्कृतस्तोमः ।
स वा एष चतुरुत्तर्यङ्गिरसाम् ।
द्व्युत्तरेण वा आदित्या स्वर्गं लोकमायंश्चतुरुत्तरेणाङ्गिरसः ।
चतुरुत्तरेण स्वर्गं लोकमेति य एवं वेद ।
तदाहुरपभ्रंशी यज्ञक्रतुरीश्वरः पुरायुषोऽमुं लोकमेतोरिति ।
तद्यत्प्रत्यवरोहीणि स्तोत्राणि भवन्ति तेनानपभ्रंशी तेनो आयुष्यः ।
अथैष विश्वज्योतिः ।
देवा वा अकामयन्त सर्व एव ज्योतिरिव स्यामेति ।
त एतं चतूरात्रं यज्ञमपश्यन् ।
तमाहरंस्तेनायजन्त ।
ततो वै ते सर्व एव ज्योतिरिवासन् ।
तस्माद्यमप्येतर्हि देवानां पश्यन्ति ज्योतिरिवादृश्मेत्येवाहुः ।
स यो ब्रह्मवर्चसकाम स्यात्स एतेन यजेत ।
ज्योतिरिव ह वै स भाति यो ब्रह्मवर्चसमृध्नोति ।
ऋध्नोति हैनेन ब्रह्मवर्चसं ब्रह्मवर्चसी भवति २९०