२८९

अथैष वसिष्ठस्य संसर्पः ।

वसिष्ठो वा अकामयत समिमाल्ँ लोकान्सर्पेयमिति ।

स एतं चतूरात्रं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स इमाल्ँ लोकान्समसर्पत् ।

यदिमाल्ँ लोकान्समसर्पत्तत्संसर्पस्य संसर्पत्वम् ।

समिमाल्ँ लोकान्सर्पति य एवं वेद ।

तस्य त्रयस्त्रय स्तोमा युक्ता अहर्वहन्ति ।

त्रयस्त्रयो वै युक्तानां वहिष्ठौ ।

युक्तेन तत्र गच्छति यत्र जिगमिषति ।

अथो आहुः प्रजाकाम एवैनेन यजेतेति स्तोमो वा एतत्स्तोमेन संसक्तो भवति ।

संसक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।

अह्नोऽह्न स्तोममुत्सृजमाना यन्त्यह्नोऽह्न स्तोममभ्युपाहरन्ते २८९