अथैष प्राजापत्यः ।
प्रजननकामो हैतेन यजेत ।
प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।
स एतं चतूरात्रमपश्यत्तमाहरत् ।
तेनायजत ।
तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशाः ।
ऊनातिरिक्ता मिथुनाः प्रजनयः ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
त्रिवृच्च पञ्चदशश्च तन्मिथुनं प्रजननम् ।
सप्तदशश्चैकविंशश्च तन्मिथुनं प्रजननं तद्यन्मिथुनं प्रजननं तन्मा प्रजनयादिति ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
बहुरेव प्रजया पशुभिः प्रजायते य एवं वेद ।
अथो आहुस्तासामेव प्रजानां सृष्टानां परावापादबिभेदिति ।
स एतं चतूरात्रं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्याग्निष्टोमावभितो भवत उक्थ्यौ मध्ये ।
ब्रह्म वा अग्निष्टोमः प्रजाः पशव उक्थ्यानि ब्रह्मणैव तदुभयतः प्रजाः पशून्परिगृह्णीतेऽपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद २८८