२८७

व्यूढच्छन्दा ह खलु वा एष चतूरात्रः ।

पूर्वो वै बृहत्यै पृष्ठेषु योग उत्तरो गायत्र्यै पूर्वो वा उष्णिक्ककुभोरार्भवे योग उत्तरोऽनुष्टुभः ।

तद्यदेतानि व्यतिषक्तानि छन्दांसि क्रियन्ते व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।

अथो व्यतिषक्तो वै पुरुषः पाप्मभिः ।

व्यतिषक्तैरेव तच्छन्दोभिर्व्यतिषक्तान्पाप्मनोऽपहते ।

तदाहुः किमनु चतूरात्र इति ।

अहोरात्रे इति ब्रूयात् ।

अहोरात्रे ह वा अनु चतूरात्रः ।

अहरेव प्रथमेनाह्ना स्तृणुतेऽह्नः केतुं द्वितीयेन रात्रिमेव तृतीयेनाह्ना स्तृणुते यः प्रातरह्नः केतुस्तं चतुर्थेन ।

अहोरात्रे वा इदं सर्वं प्रजनयतः ।

ते य इदं सर्वं प्रजनयतस्ते मा प्रजनयतामिति ।

अथो ह ब्रूयाद्दिश एवानु चतूरात्र इति ।

चतस्रो दिशः ।

ऊर्ध्वा दिक्पञ्चमी ।

चत्वार्येतान्यहानि भवन्ति ।

रात्रिः पञ्चमी ।

दिश एवैतेनर्ध्नोति ।

दिक्षु प्रतिष्ठाय स्वर्गं लोकमेति ।

तस्यैताः पुरोडाशिनीरुपसदो भवन्ति ।

योनिर्वै पुरोडाशो रेत आज्यम् ।

तद्यत्पुरोडाशं हुत्वाज्येनाभिजुहोति योन्यामेवैतद्रे तः प्रतिष्ठापयन्ति ।

अनुष्ठ्यास्य रेतस्सिक्तं प्रजायते य एवं वेद ।

अथो याभ्य एवैतद्देवताभ्यो हवींषि निर्वपति तास्वेवैतदृध्नोति ।

तासु प्रतिष्ठाय स्वर्गं लोकमेति २८७