२८६

तदाहुर्यद्गायत्र्या प्रथममहस्तायते त्रिष्टुभा द्वितीयं जगत्या तृतीयमनुष्टुभा चतुर्थमथ कस्माज्जागत एवैष यज्ञ आख्यायत इति ।

स ब्रूयाद्यदा वै बह्वश्वो वा बह्वश्वतरीको वान्यानन्यानायुञ्जाना एत्येवमेवैतज्जगत्यन्यदन्यच्छन्दोऽभ्यारोहन्त्येतीति ।

अथो यदेवैतानि स्तोत्राणि संस्तुतानि जगतीमभि सम्पद्यन्ते तेनो एव जागत इति ।

अथो ज्यैष्ठ्यं वै जगती छन्दसाम् ।

तस्माज्ज्यैष्ठ्येन गृह्यानाचक्षतैनेन गृह्यांश्चक्षते य एवं वेद ।

द्विरात्रो ह खलु वा एष तायते यो बृहद्र थन्तराभ्यामभि त्वा वृषभा सुत इत्येतासु तृतीयेऽहनि रथन्तरं पृष्ठं कुर्युः ।

तद्यदभि त्वेति तेन रथन्तरस्य रूपान्न यन्ति ।

गायत्र्यायातयाम्न्या तृतीयमहस्तायते ।

कस्तमिन्द्र त्वावसविति मैत्रावरुणसाम ।

तासामिहाक्षराणि सम्पद्यन्ते ।

तं त्वा यज्ञेभिरीमह इत्येतासु चतुर्थेऽहनि बृहत्पृष्ठं कुर्युः ।

तद्यत्तं त्वेति तेन बृहतो रूपान्न यन्ति ।

अनुष्टुभायातयाम्न्या चतुर्थमहस्तायते ।

वयमु त्वामपूर्व्येति मैत्रावरुणसाम ।

तासामिहाक्षराणि सम्पद्यन्ते २८६