२८५

अथैष जामदग्न्यः ।

प्रजननकामो हैतेन यजेत ।

जमदग्निर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।

स एतं चतूरात्रं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत ।

अपि हास्य द्वावौर्वौ प्रजायां न सञ्जज्ञाते कयस्त्वमसि कयस्त्वमसीति ।

तथा बहुरिह प्रजज्ञे ।

तस्मादिदमप्येतर्हि द्वावौर्वौ पलितौ समागत्य न सञ्जानाते ।

बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।

तस्याहुस्संवत्सरं एव दीक्षा स्युरिति ।

प्रजननं वै संवत्सरः ।

प्रजननमेष यज्ञः ।

तत्तत्प्रजननं क्रियते ।

तस्मादु हैनेन प्रजननकामो यजेत ।

अथो आहुरष्टाचत्वारिंशदेव स्युरिति ।

अष्टाचत्वारिंशदक्षरा वै जगती ।

पशवो जगती ।

जागत एष यज्ञः ।

तस्मादु हैनेन पशुकामो यजेत ।

अथो आहुष्षट्त्रिंशदेव स्युः ।

षट्त्रिंशदक्षरा वै बृहती ।

बृहती वै स्वर्गं लोकमानशे ।

तद्वा अस्य स्वर्ग्यम् ।

तस्मादु हैनेन स्वर्गकामो यजेत ।

तानि त्रीणि जागतानि ।

त्रीणि जागतानि पदानि भवन्ति ।

तेन जगत्यै रूपान्न यन्ति ।

अथो आहुश्चतुर्विंशतिरेव स्युरिति ।

चतुर्विंशत्यर्धमासस्संवत्सरः प्रजननम् ।

प्रजननमेष यज्ञः ।

तत्तत्प्रजननं क्रियते ।

तस्मादु हैनेन प्रजननकामो यजेत ।

तदेकं जागतं पदं भवति ।

तेनैव जगत्यै रूपान्न यन्ति २८५