अग्निष्टोमो वै प्रथममहरुक्थ्यो द्वितीयं षोडशिमांस्तृतीयमतिरात्रश्चतुर्थम् ।
नानावीर्याण्यहानि भवन्ति वीराणामेव नानावीर्यतायै ।
अथ ह स्माह तक्षको भागेरथिर्मात्स्यो राजानु चतूरात्रः पृष्ठानि व्याप्नोति ।
द्विरात्रो वै बृहद्र थन्तराभ्यां तायत इति ।
वैरूपं च महानाम्नयश्च तृतीयेऽहनि कुर्युः ।
राथन्तरे वैते ।
राथन्तरं तृतीयमहरिति ।
वैराजं च रेवत्यश्च चतुर्थेऽहनि कुर्युः ।
बार्हते वैते ।
बार्हतं चतुर्थमहरिति ।
एवं वै चतूरात्रः पृष्ठानि व्याप्नोतीति ह स्म स आह ।
तदाहुः को यज्ञानां वर्षिष्ठः को वरिष्ठ इति ।
स ब्रूयात्त्रिरात्र एव यज्ञानां वर्षिष्ठ इति ।
इमे वै लोकास्त्रिरात्रो दिश एव चतूरात्रः २८४