तदाहुर्यज्ञायज्ञीयमेवाह्नोऽह्नोऽग्निष्टोमसाम कुर्युः ।
ज्यैष्ठ्यं वै यज्ञायज्ञीयम् ।
ज्यैष्ठ्याद्वीरो न च्यवाता इति ।
तद्यत्समानि स्तोत्राणि स्युस्समावच्छ एव वीर्यमश्नुवीरन् ।
यद्विषमाणि ज्येष्ठेष्वेवैकधा वीर्यं दध्युः ।
तद्यत्समाः पवमाना भवन्ति समावच्छ एव तद्वीर्यमश्नुवते ।
अथ यदुत्तरैर्स्तोत्रैरुत्क्रामन्तो यन्ति ज्येष्ठेष्वेव तद्भूयो वीर्यं दधतो यन्ति ।
द्विरात्रो ह खलु वा एष तायते ।
यो बृहद्र थन्तराभ्यामभि त्वा वृषभा सुत इत्येतासु तृतीयेऽहनि रथन्तरं पृष्ठं कुर्युः ।
तद्यदभि त्वेति तेन रथन्तरस्य रूपान्न यन्ति ।
गायत्र्यायातयाम्न्या तृतीयमहस्तायते ।
कस्तमिन्द्र त्वावसविति मैत्रावरुणसाम ।
तासामिहाक्षराणि सम्पद्यन्ते ।
या गायत्र्यो गायत्र्यस्ता याः ककुभः ककुभस्ता या बृहत्यो बृहत्यस्ताः ।
यथायतनं छन्दांसि युज्यन्ते ।
गायत्र्या वै प्रथममहस्तायते त्रिष्टुभा द्वितीयं जगत्या तृतीयमनुष्टुभा चतुर्थम् ।
तं त्वा यज्ञेभिरीमह इत्येतासु चतुर्थेऽहनि बृहत्पृष्ठं कुर्युः ।
तद्यत्तं त्वेति तेन बृहतो रूपान्न यन्ति ।
अनुष्टुभायातयाम्न्या चतुर्थमहस्तायते ।
वयमु त्वामपूर्व्येति मैत्रावरुणसाम ।
तासामिहाक्षराणि सम्पद्यन्ते ।
या गायत्र्यो गायत्र्यस्ता या ककुभः ककुभस्ता या बृहत्यो बृहत्यस्ताः ।
यथायतनं छन्दांसि युज्यन्ते २८३