२८२

अयुजश्च उत्तरे स्तोमा भवन्ति ।

ऋतवो वा अयुजः ।

ऋतवो वा इदं सर्वं प्रजनयन्ति ।

ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयानिति ।

अह्नोऽह्न स्तोममुत्सृजमाना यन्ति ।

अह्नोऽह्न स्तोममभ्युपाहरन्ते ।

वीरो वा एष यत्स्तोमः ।

अह्नोऽह्न एव तद्वीर्यं प्रजनयन्तो यन्त्यह्नोऽह्नो वीर्यमभ्युपाहरन्तेऽक्षरेणाक्षरेणोत्क्रामन्तो यन्ति ।

एकाक्षरणिधनं प्रथमेऽहनि भवति द्व्यक्षरणिधनं द्वितीये त्र्यक्षरणिधनं तृतीये चतुरक्षरणिधनं चतुर्थेऽक्षरेष्ठा वीरोऽसदक्षरेष्ठा वीरोऽसदिति ।

नानाग्निष्टोमसामानि भवन्ति वीराणामेव नानावीर्यतायै ।

न ह वै स वीरो योऽन्यस्य वीर्यमनु वीरः ।

स ह वाव वीरो य आत्मन एव वीर्यमनु वीरः ।

तद्यन्नानाग्निष्टोमसामानि भवन्ति वीराणामेव नानावीर्यतायै २८२