२८१

अथैते चतूरात्राः ।

अत्रिर्वा अकामयत चत्वारो मे वीरा आजायेरन्निति ।

स एतं चतूरात्रं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै तस्य चत्वारो वीरा आजायन्त ।

अस्य चत्वारो वीरा आजायन्ते य एवं वेद ।

अत्र्यृषयो वा अकामयन्त चत्वारश्चत्वारो नो वीरा आजायेरन्निति ।

त एतं चतूरात्रं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै तेषां चत्वारश्चत्वारो वीरा आजायन्त अस्य चत्वारश्चत्वारो वीरा आजायन्ते य एवं वेद ।

आ चतुरं ह खलु वै मिथुनं प्रजननं मिथुनं पराचीनम् ।

एकश्च वा एका च द्वौ च द्वे च त्रयश्च तिस्रश्च चत्वारश्च चतस्रश्च एतद्वा आ चतुरं मिथुनं प्रजननम् ।

न ह वै पञ्च च पञ्च चेति नाम सन्ति ।

तद्यन्मिथुनं प्रजननं तन्मा प्रजनयादिति ।

तस्य चतुर्विंशाः पवमाना भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरः प्रजननं स मा प्रजनयादिति ।

तस्योभे बृहद्र थन्तरे सामनी भवतः ।

एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।

तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।

तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च ।

एतद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।

तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति २८१