ततो वै स खण्डिकं निस्सारयां चकार ।
ततो वै केशी दार्भ्योऽभवत्परा खण्डिकः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
स य श्रीकाम स्यात्स एतेन यजेत ।
एताभ्यामेव सर्वस्तोमाभ्यामेतां त्रयीं विशं परिगृह्यात्मन्धत्ते ।
तस्यै ह श्रियं गच्छति ।
अथैष पराकः ।
स्वर्गकामो हैतेन यजेत ।
तस्य पराञ्च्येव स्तोत्राणि भवन्त्य्परआञ्चि शस्त्राणि पराञ्चि पृष्ठानि पराचीर्विष्टुतयः पराङेव सर्वो भवति ।
तेन हैतेनोच्चैःश्रवाः कौवेयाय ईजे स्थविरो राजा कौरव्यः ।
स हेष्ट्वैव स्वर्गं लोकमियाय ।
तेन हैतेनेष्ट्वैव स्वर्गं लोकमेति ।
अथ यस्यैतस्य ज्योतिरग्निष्टोमो ज्योतिरुक्थ्यो ज्योतिरतिरात्र इति ब्रह्मवर्चसकामो हैतेन यजेत ।
ज्योतिरिव ह वै स भाति यो ब्रह्मवर्चसमृध्नोति ।
ऋध्नोति हैनेन ब्रह्मवर्चसं ब्रह्मवर्चसी भवति ।
अथ यस्यैतस्य सप्तदशोऽग्निष्टोमस्सप्तदश उक्थ्यस्सप्तदशोऽतिरात्र इति प्रजापतेरश्वमेधः ।
प्रजननकामो हैतेन यजेत ।
अथ यस्यैतस्यकविंशोऽग्निष्टोम एकविंश उक्थ्य एकविंशोऽतिरात्र इत्यादित्यस्याश्वमेधः ।
स्वर्गकामो हैतेन यजेत २८०