अथैषोऽन्तर्वसुः ।
खण्डिकश्च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते ।
स ह खण्डिकः केशिनमभिबभूव ।
स ह केशी खण्डिकेन निबाढ उच्चैःश्रवसं कौवयेयं जगाम कौरव्यं राजानं मातुर्भ्रातरम् ।
तं होवाच यज्ञं मे विधेहीति ।
तथेति होवाच ।
कथं ते विधास्यामि ।
यथास्मिल्ँ लोक ऋध्नोती३यथाहो अमुष्मी३निति ।
यथास्मिन्निति होवाच ।
स होवाचोत नु स यज्ञं पृच्छति यो यज्ञस्सहयं न वेदेति ।
कथा हेति ।
अमुष्मै ह्येव लोकाय यज्ञो नास्मा इति ।
नेति होवाच ।
खण्डिको वै त्यमौद्भारिरभ्यभूत् ।
स यथा तमभिभवान्येवं मे विधेहीति ।
तस्मा एतमन्तर्वसुं विदधौ ।
सर्वस्तोमोऽग्निष्टोमः ।
इत-ऊर्ध्व-छन्दोमविधं मध्यममहश्चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनमष्टाचत्वारिंशं तृतीयसवनम् ।
सर्वस्तोमोऽतिरात्रः परस्तात्प्रत्यङ् ।
ब्रह्म वै चतुर्विंशः क्षत्रं चतुश्चत्वारिंशो विडष्टाचत्वारिंशः ।
संवत्सरो वै सर्वस्तोमः ।
एताभ्यामेव सर्वस्तोमाभ्यामेतां त्रयीं विशं परिगृह्यात्मन्दधे ।
तस्यै ह श्रियं जगाम २७९