नेति होवाच ।
दानेन वा वै श्रमेण वैतं प्रजानन्नेति ।
हन्त नु ददाव वा श्राम्याव वेति ।
स ह मित्रविद्दंष्ट्रद्युम्नो गोआयुर्भ्यामेव संवत्सरमियाय ।
स होपरिष्टादेव संवत्सरस्य स्वर्गं लोकमियाय ।
अथ ह दत्वस्सौतेमनस एतेनैव त्रिरात्रेणेष्ट्वा स्वर्गं लोकमियाय ।
तेन हैतेनेष्ट्वैव स्वर्गं लोकमेति ।
एतेनो एव हिरण्यदन्वेद ईजे द्वन्द्वकामः ।
यदिदं गोअश्वं हस्तिहिरण्यमजाविकं व्रीहियवास्तिलमाषा इति तद्धास्य बह्वास ।
स यो हैवं विद्वानेतेन द्वन्द्वकामो यजते बहु हैवास्यैतद्भवति २७८