२७७

सा होवाच वेद वै यत्तेऽप्रियम् ।

मा तेऽप्रियं भूत् ।

एह्यहं तुभ्यं देवयानं पन्थानं वक्ष्यामीति ।

तथेति ।

तं हास्मा उवाच ।

तौ ह सायं समाजग्मतुः ।

स होवाच दत्वेहीदमाचार्यप्रशिष्टो ब्रूषे ।

पश्यसि त्वं देवयानं पन्थानमिति ।

नेति होवाच ।

अथ वा अहं पश्यामीति ।

तं वै मे ब्रूहीति ।

तथेति ।

तं हास्मा उवाच ।

तस्मादु ह राजन्यबन्धुरेव ब्राह्मणात्सुहृदयतरः ।

स ह दत्वः सौतेमनस उवाच पश्यसि वै त्वं देवयानं पन्थानमेहि स्वर्गं लोकमयावेति २७७