२७६

अथ यस्यैतस्य त्रिवृदहः पञ्चदशी रात्रिस्त्रिवृदहः पञ्चदशी रात्रिस्त्रिवृदहः पञ्चदशी रात्रि स्वर्गकामो हेइतेन यजेत ।

दत्वश्च ह सौतेमनसो मित्रविच्च दंष्ट्रद्युम्नस्तौ ह प्रतिदर्शस्य वैभावतस्य श्वैत्नस्य राज्ञो ब्रह्मचारिणावासतुः ।

तयोर्ह मित्रविद्दंष्ट्रद्युम्न आचार्यकर्म चकार ।

गा ह स्म रक्षति ।

अथ हेतरोऽध्यायमेव चचार ।

तौ ह स्म सायं समागत्यान्योन्यमाहतुराहर सोम्यानूक्ते हस्तं निधास्याव आहर सोम्य सुचरिते हस्तं निधास्याव इति ।

अथ ह दत्वं सौतेमनसमाचार्योऽनुशशास ।

तौ ह सायं समागत्यान्योन्यमाहतुराहर सोम्यानूक्ते हस्तं निधास्याव आहर सोम्य सुचरिते हस्तं निधास्याव इति ।

नेति होवाच ।

अति वा अहं त्वदमुक्ष्याचार्यप्रशिष्टो वा अहमस्मीति ।

स ह तां रात्रिमप्रियविद्ध उवास ।

श्वो ह भूते गा अन्वियाय ।

तं ह गौरीक्षित्वैव विजज्ञावप्रियं वा अस्येति २७६