२७५

अथैष गोविनतश्छन्दोमपवमानः ।

पशुकामो हैतेन यजेत ।

तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च तद्ये ह वा अयुज स्तोमास्तान्ग्राम्याः पशवोऽन्वथ ये युग्मन्तस्तानारण्याः ।

पशवो वै छन्दोमाः ।

स यो हैवं विद्वाञ्छन्दोमपवमानेन यजेत उभयानेव पशूनवरुन्द्धे ये च ग्राम्या ये चारण्याः ।

अथैतदेकविंशपृष्ठं द्वितीयमहर्भवति ।

यैवासावेकविंशस्य प्रशंसा न उपाप्तासदिति ।

तदेवैतस्य ब्राह्मणम् ।

तस्मिन्नेतमश्वं मेध्यमालभन्ते ।

यद्वेवैतदेकविंशपृष्ठं तस्माद्गोविनतः ।

त्रयस्त्रिंशं पुनरभ्यावर्ति तृतीयस्याह्नो भवति ।

त्रयस्त्रिंसद्वै देवतास्त्रयस्त्रिंशद्देवलोकाः ।

तानेवैतदन्तत आप्त्वाभ्यारोहन्ति ।

अथ यस्यैतस्य पञ्चदशोऽग्निष्टोमः पञ्चदश उक्थ्यः पञ्चदशोऽतिरात्र इति ।

क्षत्रकामो हैतेन यजेत ।

क्षत्रमश्वः क्षत्रं पञ्चदशः क्षत्रं यज्ञः ।

एष तत्तत्सलक्ष्म क्रियते ।

तेन हैतेनर्षभो याज्ञतुर ईजे श्वैत्नो राजैकराट्कामः ।

स हेष्ट्वैवैकराडास श्वित्नानाम् ।

स य श्रीकाम स्यात्स एतेन यजेत ।

क्षत्रं श्रीः ।

क्षत्रयज्ञ एषः ।

अश्नुते श्रियम् २७५