२७४

तत्परिगृह्यैतस्मिन्द्वितीयेऽहन्नालभन्ते ।

तदेतदेकविंशं द्वितीयमहर्भवत्येकस्तोमम् ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

यथा ह वै दृढा मेथी निहतैवमेकवींश स्तोमानाम् ।

तस्मिन्नेतान्पशूनालभन्ते हस्तिनं परमं प्लुषिमवमम् ।

तान्पर्यग्निकृत्वाइकाल्ँ लभन्त उदेकान्सृजन्ते ।

तस्य महानाम्न्यः पृष्ठं भवन्ति ।

नो ह्येतानन्यन्महानाम्नीभ्यः पृष्ठं पशूनुद्यन्तुमर्हति ।

तास्सप्तपदा भवन्ति सप्त वै ग्राम्याः पशवो ग्राम्याणामेव पशूनामवरुद्ध्यै ।

अति सप्तमं पदं भवत्यारण्यानामेव पशूनामवरुद्ध्यै ।

तस्य पार्थुरश्मं ब्रह्मसाम भवत्यथकारेण समृद्धम् ।

अथगथगितीव ह्यश्वो धावति ।

अथो पृथुर्वाव रश्मिरश्वं यन्तुं अर्हति ।

तदु पाङ्क्तं भवति ।

पाङ्क्तं हि महानाम्नीनां ब्रह्मसाम ।

तस्यैकविंशतिर्यूपा भवन्त्येकविंशत्यरत्नयः ।

नो ह्येताननेकविंशतिर्यूपाः पशूनुद्यन्तुमर्हन्ति ।

षड्बैल्वा द्वादश खादिराः पौतुद्रा वावभितोऽग्नेर्वा एतच्छरीरं यत्पूतुद्रु राज्जुदाल एकविंशतिः ।

सोऽग्निष्ठः ।

प्रजापतिर्वा एष वृक्षाणां यद्रा ज्जुदालः ।

तस्य यानि फलानि शिश्नान्येव तानि ।

अथ य श्लेष्मा रेत एव तत् ।

प्रजापतिर्वै पिता आदित्यः पुत्रः ।

सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।

सर्वं हीदं स्तोमा एव ।

अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु प्रतिष्ठायोदृचमश्नवामहा इति २७४