२७३

तस्य चतसृषु बहिष्पवमानं भवति ।

चतुष्पादा वा अश्वाः सन्तश्चतुश्शफाः ।

ते ये चतुष्पादाः पशवश्चतुश्शफास्तानेवैतेनावरुन्द्धे ।

अष्टास्वष्टास्वाज्यानि ।

अष्टाशफा वै पशवः ।

ते येऽष्टाशफाः पशवस्तानेवैतेनावरुन्द्धे ।

द्वादशो माध्यन्दिनः ।

द्वादशाक्षरा वै जगती ।

पशवो जगती ।

यत्क्षुद्रं पशूनां तज्जागतम् ।

तदेवैतेनावरुन्द्धे ।

सविंश आर्भवः पवमानः ।

द्वे वा एते दशदशिन्यौ विराजौ यद्विंशतिः ।

विंशतिप्रतिष्ठाना वै पशवो वैराजाः ।

ते ये विंशतिप्रतिष्ठानाः पशवो वैराजास्तानेवैतेनावरुन्द्धे ।

अथ चतुर्विंशमग्निष्टोमसाम ।

चतुष्पादा वै पशवो वैराजाः ।

ते ये चतुष्पादाः पशवो वैराजास्तानेवैतेनावरुन्द्धे ।

अथो चतुर्विंशत्यर्धमासस्संवत्सरः संवत्सरेणैवैनत्२७३