तदु ह मौण्डिभोऽनुबुध्योवाच सम्मिनुत मे सदोहविधाने याजयत मा ब्राह्मणाः ।
अमृत ह वै स ब्राह्मणोऽनुव्याहारीति ।
तस्य ह तथा चक्रुः ।
तदु ह सौमस्तम्बिरनुबुध्याजगाम ।
स ह तथैवास्तावं प्रतिनिषसाद ।
तस्य हायं पूषा रयिर्भग इत्येता एव प्रतिपदश्चक्रुः ।
स होवाच न वै किलायं राजन्यबन्धुरिमं यज्ञक्रतुं विदां चकार ।
न वै किल मेऽनेनोक्तेन पुत्रमवधीत् ।
एतावद्वाव किल त्यस्य पुत्रस्यायुरभूदिति ।
तं ह तच्छशाप मरिष्यत्यहायं राजन्यबन्धुः परो इमे मौण्डिभा भविष्यन्तीति ।
त एते पराभूता गोतमा ब्रुवाणाश्चरन्ति ।
तस्य वा एतस्य तरत्स मन्दी धावतीत्येव प्रतिपदो भवन्ति तरद्वतीः ।
तस्मादश्वोऽध्वानं तरिष्टः ।
धावद्वतीर्भवन्ति ।
तस्मादश्वोऽध्वानं धावन्समश्नुते ।
समय्येकं पदं भवति ।
तस्मादश्व एकैकं पादमुदङ्कं तिष्ठति २७२