अस्ति वा न वेति होवाच ।
यदेव ते किं च पितु स्वं तस्य सर्वस्य पुरा सूर्यस्योदेतोश्शिरश्छिन्द्धि ।
सा वैव सा वा नेति ।
स ह तथा छेत्तुमुपचक्रमे ।
ते होचुरदृपद्यवक्रीर्विबध्नामेति ।
नेति ह पितोवाच ।
देवेषितो वै मे पुत्रः करोति ।
एष एव तद्वेद यदत्र श्रेय इति ।
तद्ध बधिरो ग्रामे तक्षा प्रतिषिध्यमानं न शुश्राव ।
तस्य ह घ्नन्परेयाय ।
स ह को नु नो जनस्तृणेढीति ।
स एवास्य प्रजघानेत्येके ।
घ्नन्तमेवैनं सूर्योऽभ्युदियाय ।
तस्योदिते स एव गन्धर्वः प्रजघानेत्येके ।
यथा ह तु ममार तथास ।
शश्वद्धास्य स एव गन्धर्वः प्रजघान २७१