२७०

तां हालङ्कुर्वाणां रुदतीं पतिराजगाम ।

तां होवाच किमलङ्कुरुषे किं रोदिषीति ।

सा होवाच मरिष्यसि हीत्यात्मानमेवैतत्कृपये ।

यवक्रीर्वै त्यामच्छावोचतेति ।

स होवाचाज्यमत आहरतेति ।

तद्ध पवित्राभ्यामुत्पूय जुहवां चकार

या नो अद्य त्रायाति भारद्वाजस्य संस्कृता

प्रेणीमग्निप्रियामग्ने तां मह्यमा वह स्वाहा

इति ।

तस्यै हायःकूटहस्तं गन्धर्वमीर्ष्युमुत्थापयां चकार ।

तं होवाचासौ ते जाया यवक्रियमभ्यगात् ।

तदिहीति ।

तस्यै हायत्या उपतस्तार ।

सा ह सिष्मिये ।

स होवाच नाह किल ते स्त्रिके स्मेतव्यम् ।

अथ स्मयस इति ।

कथा हेति ।

मरिष्यसि हीति ।

सा ह पादं प्रगृह्णत्युवाच न खलु त्वं पुरुषेत्थम्पदीं स्त्रियं पेचिष इति ।

लोमशौ हास्या अधस्तात्पादावासतुः ।

सन्निपन्नौ वा हासन्निपन्नौ वासतुः ।

अथ हेदमेवायःकूटहस्तो गन्धर्वोऽभिविचक्रमे ।

स होवाच नमस्तेऽस्तु ।

कास्य प्रायश्चित्तिरिति २७०