२६९

तेन हैतेन मौण्डिभ उदन्युरीज उदन्यूनां राजा ।

तद्ध यवक्रीः सौमस्तम्बिरास्तावं प्रति निषसाद ।

तस्य हायं पूषा रयिर्भग इत्येताः प्रतिपदश्चक्रुः ।

स होवाच छम्बण्मास्था मौण्डिभाप प्राणानरात्सीरिति ।

एष ह तर्ह्यनुव्याहार आस ।

अथ ह मौण्डिभ उदन्युस्त्रय्यै विद्यायै कस्सवित आस ।

स होवाचसंवृहत मे सदोहविर्धाने मृदा मे ग्रहान्सन्दिह्य निधत्त ।

यर्ह्ययं ब्राह्मणोऽनुव्याहारी मर्ता तर्हि यष्टास इति ।

तस्य ह मृदा ग्रहान्सन्दिह्य निदधुः ।

अथ ह यवक्रीः सौमस्तम्बिस्तेजस्वी ब्रह्मवर्चस्यास ।

स ह स्म यामच्छाब्रूते या ह स्मैनं कामयते म्रियते ह स्म ।

यो ह स्मैनं न कामयते म्रियत उ एव ।

स ह यज्ञवचसो राजस्तम्बायनस्य जायामच्छोचे ।

सा हेक्षां चक्रे यदि वा एनं कामयिष्ये यदि च न मरिष्यत्येव स्या ।

हन्तैनं कामयै ।

ब्राह्मणस्य चित्स्या प्रियं कृत्वा म्रियतादिति ।

तं होवाचादस्तिष्ठ ।

अथ त्वाभ्येष्याम इति २६९