तदाहुर्यःकथं स आलभ्य इति ।
य एव दूरे श्रुतस्स आलभ्य इत्याहुः ।
वीर्येण वै स श्रुतः ।
वीर्यमेष यज्ञ इति ।
अथो आहुर्य एव युग्ययोर्वहीयान्स आलभ्य इति ।
वीर्येण ह वै स तयोर्वहीयान् ।
वीर्यमेष यज्ञ इति ।
तस्मिन्ह शौनकश्च कापेयोऽभिप्रतारणश्च समूदाते यःकथंरूपस्स आलभ्य इति ।
तौ ह कृष्णपिशङ्गे सम्पादयां चक्रतुः ।
यस्य श्वेतस्य सतः कृष्णमस्ति कृष्णस्य वा सत श्वेतं स एव सः प्रजापतिन्यङ्गः ।
प्रजापतेरक्ष्यश्वयत् ।
तत्परापतत् ।
तदपः प्राविशत् ।
ततोऽश्वस्समभवत् ।
यदश्वयत्तस्मादश्वः ।
यच्छ्वयथोस्समभवत्तस्मात्पूतिर्यदपः प्राविशत्तस्माच्छ्वेतनः । श्वेतवर्ण्क्तः
श्वेतस्य वा वै सतोऽक्ष्णः कृष्णमस्ति कृष्णस्य वा सत श्वेतम् ।
स एव स प्रजापतिन्यङ्गः ।
तमेतदालभन्ते २६८