तस्य वा एतस्य ललाटादेव सिंहोऽजायतोरसोऽधि शार्दूल उदराद्द्वीप्यक्षीभ्यामपाष्ठिहौ कर्णाभ्यामश्वकर्णौ केसरेभ्य ऋक्षा ऋक्षीका लोमभ्यो दूर्वा अनूकाच्छिंशुमारो वालेभ्योऽश्ववालाः सक्थिभ्यां क्रौञ्चावाण्डाभ्यां वराहौ वक्त्राभ्यां चक्रवाकौ वनिष्ठोरुद्रो गुदाभ्योऽहयोऽजगराः कुष्ठिकाभ्यो वर्तकाः शफेभ्यः शल्यकाः शकृत्पिण्डेभ्यः कूश्मा ऊवध्यादुर्वारु तन्तिसन्तदूलः श्यामाको लोहितकमित्येतत्क्षुद्र मन्नाद्यमुपजज्ञे २६७