२६६

अथैषोऽश्वमेधः ।

प्रजननकामो हैतेन यजेत ।

प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय वीमाल्ँ लोकानाप्नुयामवेन्द्रि यं वीर्यं रुन्धीयेति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत वीमाल्ँ लोकानाप्नोदवेन्द्रि यं वीर्यमरुन्द्ध ।

स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय वीमाल्ँ लोकानाप्नुयामवेन्द्रि यं वीर्यं रुन्धीयेति स एतेन यजेत ।

बहुरेव प्रजया पशुभिः प्रजायते वीमाल्ँ लोकानाप्नोत्यवेन्द्रि यं वीर्यं रुन्द्धे ।

स वा एष वीर्यमेव यज्ञः ।

यर्हि वा एतेन पुरेजिरे सर्वमेव वीर्यवदास ऋषिर्ह स्म मन्त्रकृद्ब्राह्मण आजायतेऽतिव्याधी राजन्यश्शूरः पोषयिष्णुर्वैश्यो रयिमानुत्थाता शूद्रो दक्षः कर्मकर्ता कल्याण्य स्त्रियः पतिव्रताः ।

अकृष्टपच्यं ह स्म धान्यं पच्यते ।

अपि ह स्मैको व्रीहिपात्रः पक्वः कुलायालं भवति ।

तथा पयस्वद्ध तर्हि सर्वमेवास ।

अपि ह स्मारण्ये वीर्याण्युपजायन्तेऽघलास्सिंहा अघलाश्शार्दूला अघला ऋक्षा ऋक्षीका अघला अहयोऽजगराः ।

पुरुषव्याघ्रा ह स्मारण्येष्वाददानास्तिष्ठन्ति ।

अपि ह स्मैकः शिंशुमारो बहूनि तीर्थानि गोपायति ।

वीर्येण ह वाव ते तत्तथासुः २६६