सा या सहस्रतम्यास विद्युद्धैव सा भूत्वा प्रजापतिं विवेश ।
तदेषाभ्यनूच्यते
अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत
इति ।
इमां हैव गां रूपं प्रत्युह्य विद्युदेव भूत्वा पुनः प्रजापतिं प्रविवेश ।
सैषा विद्युत्सा यदेतत्स्तनयति ददददददेति ।
ददानि ददानीति हैव तत्प्रजाभ्यो वृष्टिमन्नाद्यं प्रयच्छति ।
प्रास्मा एषा देवता वृष्टिमन्नाद्यं यच्छति य एवं वेद २६५