तत्सार्धं सहस्रं समाकुर्वन् ।
तदेषां सहस्रं सङ्ख्यान एकस्यै गोर्नोदभवत् ।
तेऽब्रुवन्प्रजापतिमेवेमां सहस्रतमीं याचामहा इति ।
ते प्रजापतिमेव तां सहस्रतमीमयाचन्त ।
स प्रजापतिरैक्षत यद्येभ्यः प्रदास्यामि रेक्ष्ये यद्येभ्यो न प्रदास्याम्यूनमेषां सहस्रं भविष्यति ।
हैन्तैनान्सहैवानयाभ्युपयानीति ।
तानब्रवीत्सहैव वोऽहमनयाभ्युपयानीति ।
तथेति ।
तांस्तयैव सहाभ्युपैत् ।
त एतं त्रिरात्रं यज्ञमपश्यत् ।
तमाहरन्त ।
सोऽब्रवीत्समेना३नेन यज्ञेन यक्षामहा३असमेना३इति ।
समेनेत्यब्रुवन् ।
यत्समेनेत्यब्रुवन्सम एव तद्वर्षमकुर्वत समे राष्ट्रं सञ्ज्ञां एव तदकुर्वत ।
अथ यदवक्ष्यन्नसमेनेत्यसम एव वर्षमभविष्यदसमे राष्ट्रमसञ्ज्ञाभविष्यत् ।
ते केन समेष्याम इति ।
यज्ञायज्ञीयेनेति ।
तस्माद्यज्ञायज्ञीयेनैव संयन्ति ।
वाग्वै यज्ञायज्ञीयम् ।
वागिमे लोकाः ।
वाचैव तद्वाचमारोहन् ।
ते त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमेऽहन्नददुः ।
तेनास्मिल्ँ लोकेऽग्निरराध्नोत् ।
त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीयेऽहन्नददुः ।
तेनास्मिनन्तरिक्षे लोके वायुरराध्नोत् ।
त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीयेऽहन्नददुः ।
तेनामुष्मिल्ँ लोक आदित्योऽराध्नोत् ।
स यो हैवं विद्वानेतेन यज्ञक्रतुना यजत एतासु चैव देवतास्वृध्नोत्येतांश्च लोकानाप्नोति २६४