२६३

त एव चतुर्होतारमासत ।

एते ह वाव चतुर्होतारो यानिमानाहुश्चतुर्होतॄन् ।

तेषां सहस्रतम्यामाहुत्यां गौराजायत ।

तस्यां सर्वान्भोगान्पर्यपश्यन्ये के च गवि भोगास्तान् ।

तेऽब्रुवन्निमे वा अस्यां सर्वे भोगाः ।

एतेमामेव प्र णो जनयेति ब्रवामेति ।

तामब्रुवन्प्र णो जनयेति ।

सा त्रयस्त्रिंशतं च त्रीणि च शतान्याग्नये । प्राजनयत् ।

त्रयस्त्रिंशतं च त्रीणि च शतानि वायवे प्राजनयत् ।

त्रयस्त्रिंशतं च त्रीणि च शतानि आदित्याय प्राजनयत् ।

तत्सहस्रमभवत् ।

सैव सहस्रतमी ।

तां पुनराजायत ।

स यो हैवं विद्वान्गा रक्षते प्र हैवास्य सहस्रमाप्नुवन्ति ।

तस्मादु हैवंविदा रक्षितव्या एव गावः ।

तेऽब्रुवन्नलं वै तस्मै स्मो यन्नानाशो विपरेत्य यजमाना आसीमह्येत नानाशो विपरेत्य यजमाना आसामहा इति ।

ते नानाशो विपरेत्य यजमाना आसत ।

ते नैव श्रेयांसोऽभवन्न पापीयांसः ।

तेऽब्रुवन्न वै श्रेयांसोऽभूम न पापीयांसः ।

एत सहस्रेण यजामहा इति २६३