\श्वेतो लोमशस्तूपरो लप्सुग्यन्यतोदंश्चतुष्पादजायत ।
तस्मिन्सर्वाणि रूपाणि पर्यपश्यन् ।
तेऽब्रुवन्निमानि वा अस्मिन्सर्वाणि रूपाणि ।
एतेममेवालभामहा इति ।
ते तमालभन्त ।
तेषां प्राण एवाश्रावयदपानः प्रत्याश्रावयत् ।
मन एव होतासीत् ।
प्रजापतिरेव चतुर्थो ब्रह्मा दक्षिणत आस्त ।
तं प्रजापतेरेव हृदयेऽग्नौ सर्वहुतं अजुहवुः ।
तस्माद्धुतादग्निर्देवताजायत ।
तदृचो वेदः ।
अनु वायुर्देवताजायत ।
तद्यजूंषि वेदः ।
अन्वादित्यो देवताजायत ।
तत्सामानि वेदः ।
अन्वेते च त्रयो देवानां श्रेष्ठा अजायन्तैताश्च तिस्रो वियाः ।
शश्वद्धैतावदेव प्रजापतिना सृष्टम् ।
अथैताभिरेव देवताभिरिदमितरत्सर्वम् ।
तेऽब्रुवन्येन नः पिता प्रजापतिर्यज्ञेनेष्ट्वारात्सीत्तेन यजामहा इति ।
ते तमाहरन्त ।
तेषां वायुरेवाश्रावयदादित्यः प्रत्याश्रावयत् ।
अग्निरेव होतासीत् ।
प्रजापतिरेव चन्द्र माश्चतुर्थो ब्रह्मा दक्षिणत आस्त २६२