२६१

प्रजापतिर्वावेदमग्र आसीत् ।

सोऽकामयत बहुः स्यां प्रजायेय भूमानं गच्छेयमिति ।

सोऽशोचत् ।

सोऽतप्यत ।

तं शोचन्तं तप्यमानं प्राणा अभ्यवदन्वयं वा इमं यज्ञमदृश्म तेन त्वा याजयामेति ।

सोऽब्रवीत्तं कथमद्रा ष्ट कतममद्रा ष्टेति ।

तेऽब्रुवन्नाश्रावयास्तु श्रौषट् ।

यजये यजामहे ।

वौषडित्येतमदृश्मेति ।

सोऽवेददृशन्वा इति ।

यत्पञ्चासन्पाङ्क्तो यज्ञः ।

तेनावेददृशन्वा इति ।

तेषामु यत्पञ्चानां सतां सप्तदशाक्षराण्यासन्सप्तदशः प्रजापतिः प्राजापत्यो यज्ञः ।

तेनो एवावेददृशन्वावेति ।

सोऽब्रवीत्ते केन होष्यामः कस्मिन्होष्याम इति ।

तेऽब्रुवंस्तवैव वपामुत्खिद्य तां तवैव हृदयेऽग्नौ सर्वहुतां होष्याम इति ।

ते प्रजापतेरेव वपामुदखिदन् ।

वाचमेव तेषां प्राण एवाश्रावयदपानः प्रत्याश्रावयत् ।

मन एव होतासीत् ।

प्रजापतिरेव चतुर्थो ब्रह्मा दक्षिणत आस्त ।

तां प्रजापतेरेव हृदयेऽग्नौ सर्वहुतां अजुहवुः ।

तां यदवपंस्तद्वपायै वपात्वम् ।

यद्वो एनां तदजुहवुस्तदेनामवपन् ।

तस्मादु ह वप्तव्यमेव ।

उप्ताद्ध्येवेदं सर्वं जायते तस्यै हुताया अजः २६१