२६०

अग्ने देवाणां होतस्त्वं देवानां होतास्यहं मनुष्याणां स न इदं ब्रूहि यथेदं भविष्यति न साम समैति न स्तोत्र्या नो मे लोकास्सङ्क्रामन्ति वरीयान्यजमानस्य लोको भवति ।

यत्साम समेयाद्यत्स्तोत्र्यो यदिमे लोकास्सङ्क्रामेयुरंहीयान्यजमानस्य लोक स्यात् ।

गायत्रं समैति ।

प्राणो वै गायत्रम् ।

सर्वत्र ह्येव प्राणः समैति ।

यज्ञायज्ञीयं समैति ।

वाग्वै यज्ञायज्ञीयम् ।

सर्वत्र ह्येव वाक्च प्राणश्च समेतः ।

द्वे सामनी समेतो द्विपाद्यजमानः प्रतिष्ठित्यै ।

प्रतितिष्ठति य एवं वेद २६०