२५९

अथास्या एतत्पृश्नि शबलं पदं यद्रा त्रिः ।

स यो हास्य एतत्पृश्नि शबलं पदं वेद पृश्निरेव प्रजया पशुभि श्रिया कीर्त्यायुषा भवति ।

तद्यथाग्निं दीप्यमानमुपवाजनेनोपवाजयेदेवमेवैतद्ब्राह्मण आत्मानं संश्यते सत्यं वदन् ।

स सत्यमेव वदेत्सत्यं चरेत्सत्यं चिकीर्षेत्सत्यमेव भवति ।

उत त्वेनमनृतस्य कामो विन्देज्जीवनकाम्या वा स्त्रीकाम्या वा नर्मकाम्या वा सखिकाम्या वा ।

रात्र्यां वा हैनच्छायायां वा वदेत् ।

तथा हैनं तन्न द्रुणीतेद्रुणाति ।

स्वे ह्येनदायतने वदति ।

पृथ्वी बेकुर इति ।

हेति हेसिनी परिमन्थादित्ये मनस्ते भुवो युवस्ते यज्ञस्याज्यमसि धीष्णस्त्वृतुस्था मनस्था मनसो ग्रामस्यामाविशनाभृत्तेऽस्मि रन्तिरसि रमतिरसीमे स्वर्गस्य ऊर्जस्वती पयस्वती शबल्येह्यराभुरस्मि सिकताः पुरोमि वत्सा बिभर्मि सहस्रमातरं विद्म त्वा पुरुष तल्लक स न इदं ब्रूहि यथेदं भविष्यति २५९