२५८

शबलि समुद्रो ऽस्यक्षितिर्ब्रह्मदेवी प्रथम्जा ऋतस्यैकमक्षरं क्षरसि विभावर्यभीमाल्ँ लोकानमृतं दुहाना तां त्वा विद्म सरमे दीद्यानामक्षितिं देवेभ्यो भासा तपन्तीम् ।

तेजोऽसि शुक्रमस्यमृतमस्यन्नमसि महदस्येषासि महि तां त्वा तथा वेद ।

तस्यां त्वय्येतां दक्षिणां निदधेऽक्षितिमक्षीयमाणां श्रियं देवानां बृहज्ज्योतिर्वसानां प्रजानां शचिष्ठामावृतमनुगेषमिति ।

एषा ह वै शचिष्ठावृद्यदसावादित्यः ।

तस्या एते द्वे पदे अहश्चैव रात्रिश्च सत्यं चानृतं च ।

तद्धास्या एतत्सत्यं पदं यदहः ।

तदेतदत्यायु नाम ।

स यो हास्य एतदत्यायु नाम पदं वेदात्येवान्यान्प्रजया पशुभि श्रिया कीर्त्यायुषा भवति २५९