षट्च वै गायत्री प्रथममहस्सम्पद्यते दश च स्तोत्र्याः ।
षट्च वै त्रिष्टुभो द्वितीयमहस्सम्पद्यत एकां च स्तोत्र्याम् ।
अथ यत्तृतीयमहस्तस्य द्वे सवने जगतीस्सम्पद्यतेऽनुष्टुभः ।
तृतीयसवनमेकविंशष्षोडशी ।
षोडशी वै पूर्वयोरह्नोरपित्वमैच्छत ।
षोडशिनि पूर्वेऽहनी अपित्वमैच्छेताम् ।
तमेताभिरेकादशभि स्तोत्र्याभिरुपसम्पराइताम् ।
स आनुष्टुभष्षोडशी समपद्यत ।
स यो वै षोडशिनं पूर्वयोरह्नोरपित्विनं वेद षोडशिनि पूर्वेऽहनी अपित्विनी अपित्वी ह तत्र भवति यत्र कामयतेऽपित्वी ह स्यामिति ।
तदाहु स्तोमैरेव पृष्ठ्यं षडहमाप्नोति सम्पदा छन्दोमान्रात्र्या दशममहरिति ।
स यवद्वादशाहेन दक्षिणावतावरुन्द्धे य एवं वेद ।
अथैषा सहस्रतमी तां यद्दद्याद्रि च्येतानु गर्भाश्शुष्येयुर्यन्न दद्यादूनमस्य सहस्रं दत्तं स्यात् ।
कलां चादेयं च न दद्यात् ।
तन्मिथुनम् ।
तदनु प्रजायते ।
तदाहुरदत्तं वै तथा भवत्युत वै कलामेवान्ववजयति ।
तत्तत्कलां वानु सहस्रं इयात् ।
कलावानु सहस्रं तत्तदविज्ञानं दत्वैवैनामद्यया गवा निष्क्रीणीयादिति ।
तदु वा आहुर्दत्तं वै तथा भवति ।
गौरितरा गौरितरोर्णासूत्रस्यैवनामाविकस्य यावदर्हन्तीम्मन्येत तावता निष्क्रीणीयादिति ।
ऊर्णासूत्रमु वै गोः किञ्चिदिव ।
दत्तमस्य सहस्रं भवति नात्मना रिच्यते ।
स यथा वागरया वा रज्ज्वा वा व्रजं परितनुयादेवमेवैतत्पशून्परिगृह्णीतेऽपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद २५७